१८

तस्मिन्नुत्तरेण गार्हपत्यमुपविश्य पवित्रान्तर्हिते पात्रेऽप आनयति को वो गृह्णाति स गृह्णातु इति १
अपो गृह्णन्निमां मनसा ध्यायति २
उपबिलं चमसं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयाभिमन्त्रयते यथा पुरस्तात् ३
ब्रह्माणमामन्त्रयते ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छ इति ४
प्रणीताः प्रणयन् वाचं यच्छत्या हविष्कृतः ५
प्रसूतो ब्रह्मणा समं प्राणैर्धारय-माणोऽविषिञ्चन् स्फ्येनोपसङ्गृह्य हरत्यनुपसङ्गृह्य वा को वः प्रणयति स वः प्रणयतु ॥ अपो देवीः प्रणयामि यज्ञँ सँ सादयन्तु नः । इरं मदन्तीर्घृतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीः इति ६
मनसा मन्त्रं जपति ७ उत्तरेणाहवनीयं प्रणीताः सादयति को वो युनक्ति स वो युनक्तु इति ८ दर्भैरपिधाय पवित्रे आदाय पात्राणि सम्मृशति सँ सीदन्तां दैवीर्विशः पात्राणि देवयज्यायै इति ९
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा ददे वानस्पत्यासि इत्यग्निहोत्रहवणीमाडत्ते १०
वेषाय त्वा इति शूर्पम् ११
उर्वन्तरिक्षमन्विहि इत्यभिप्रव्रज्याहवनीये निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १२
१८