१७

वैकङ्कतानीत्यालेखनः १
वारणान्यहोमार्थानि स्युः २
विज्ञायते तस्माद्वारणो यज्ञापचारः । न त्वेनेन जुहुयादिति ३
गार्हपत्यात्प्रक्रम्य सन्ततां प्राचीमुलपराजीँ स्तृणात्याहवनीयात् यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै स्तृणामि सन्तत्यै त्वा यज्ञस्य इति ४
अत्र ब्रह्मा प्रपद्यते ५
बर्हिषः समावप्रछिन्नाग्नौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु इति ६
तृणं काष्ठं वान्तर्धाय छिनत्ति न नखेन ७ अथैने अद्भिरनुमार्ष्टि विष्णोर्मनसा पूते स्थो वैष्णवी स्थो वायुपूते स्थः इति ८
अथैने अभिमन्त्रयते इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने इति ९
वेषाय त्वा इति प्रणीताप्रणयनं चमसमादाय प्रक्षालयति वानस्पत्योऽसि देवेभ्यः शुन्धस्व इति १०
कँ सेन ब्रह्मवर्चस-कामस्य प्रणयेद् गोदोहनेन पशुकामस्य मृन्मयेन प्रतिष्ठाकामस्येति विज्ञायते ११
१७