श्वो भूतेऽग्नीन् परिस्तीर्य यथा पुरस्तात् कर्मणे वां देवेभ्यः शकेयम् इति
हस्ताववनिज्य पात्राणि प्रक्षाल्य द्वन्द्वं प्रयुनक्ति दशापराणि दश
पूर्वाणि १
स्फ्यं च कपालानि चाग्निहोत्रहवणीं च शूर्पं च
कृष्णाजिनं च शम्यां चोलूखलं च मुसलं च दृषदं चोपलां चेत्युत्तरेण
गार्हपत्यम् २
स्रुवं च जुहूं चोपभृतं च ध्रुवां च प्राशित्रहरणं
चाज्यस्थालीं च वेदं पात्रीं च प्रणीताप्रणयनं चेडापात्रं
चेत्युत्तरेणाहवनीयम् ३
यथोपपातमवशिष्टान्यन्ततः
प्रातर्दोहपात्राणि ४
खादिरः स्रुवः स्फ्यः शम्या
प्राशित्रहरणं च । पर्णमयी जुहूः । आश्वत्थ्युपभृत् ।
वैकङ्कती ध्रुवाग्निहोत्रहवणी च ५
प्रादेशमात्र्योऽरत्निमात्र्!
यो बाहुमात्र्यो वा स्रुचो भवन्ति त्वग्बिला मूलदण्डा हस्त्योष्ठ्यो
वायसपुच्छा हँ समुखप्रसेचना वा ६
यान्यनादिष्टवृक्षाणि यः कश्च यज्ञियो
वृक्षस्तस्य स्युरित्याश्मरथ्यः ७
१६