१५

न मृन्मयेनापिदध्यात् । यदि मृन्मयेनापिदध्यात् तृणं काष्ठं वान्तर्धाया-पिदध्यात् १
अपिधायानधः सादयति विष्णो हव्यँ रक्षस्व इति २
तथैव रात्रौ प्रातर्दोहाय वत्सानपाकरोति ३
अपि वापराह्ण एवोभयोर्दोहयोर्वत्सा-नपाकुर्यात् ४
उपधाय कपालानि सायन्दोहवत् प्रातर्दोहं दोहयति ५
एतावन्नाना । उदगग्रं पवित्रं निदधाति ६
नातनक्ति ७
नासोमयाजी सन्नयेदिति विज्ञायते ८ सन्नयेदित्येकेषाम् ९
ऐन्द्र मेके सान्नाय्यँ समामनन्ति माहेन्द्र मेके १०
त एते महेन्द्र याजिनः शुश्रुवान् ग्रामणी राजन्य और्वो गौतमो भारद्वाजः ११ त आदित एवाग्नीनाधाय महेन्द्रं यजेरन् १२
अथेतर इन्द्र या-जिनः १३
स य इन्द्र याजी महेन्द्रं यियक्षेत संवत्सरमिन्द्र मिष्ट्वाग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् १४
ततोऽधि कामं महेन्द्रं यजेतेति विज्ञायते १५
तस्माद् यः कश्चन सोमेनेष्ट्वा महेन्द्रं यजेतेति विज्ञायते १६
१५