विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयित्वा कुम्भ्याँ सङ्क्षालनमानयति
सम्पृच्यध्वमृतावरीः इति १
श्रपयित्वा कर्षन्निवोदगुद्वासयति दृँ ह
गा दृँ ह गोपतिं मा वो यज्ञपती रिषत् इति २
प्रागित्येकेषां
प्रागुदगित्येकेषाम् ३
शीतं बुध्नं कृत्वा
दध्नातनक्ति सोमेन त्वा तनच्मीन्द्रा य दधि इति ४
महेन्द्रा य
इति वा यदि महेन्द्र याजी भवति ५
अग्निहोत्रोच्छेषणमानयति यज्ञस्य
सन्तति-रसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि इति ६
अग्निहोत्रोच्छेषणमानीय
दध्या-नयेदित्याश्मरथ्यः ।
दध्यानीयाग्निहोत्रोच्छेषणमित्यालेखनः ७
यद्यग्नि-होत्रोच्छेषणं न विन्देत्
तण्डुलैरातञ्च्यात् । यदि तण्डुलान् न
विन्देदोषधीभि-रातञ्च्यात् ८
आपो हविःषु
जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत इत्यपिधानेऽप
आनीयोदन्वतायस्पात्रेण दारुपात्रेण वापिदधाति अदस्तमसि विष्णवे
त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः
परिशेरते इति ९
१४