सपवित्रां कुम्भीमन्वारभ्य वाचं यच्छति १
धारयन्नास्ते २
धाराघोषम-भिमन्त्रयते उत्सं दुहन्ति
कलशं चतुर्बिलमिडां देवीं मधुमतीँ सुवर्विदम् । तदिन्द्रा ग्नी
जिन्वतँ सूनृतावत् तद्यजमानममृतत्वे दधातु इति ३
दुह्यमाने
विप्रुषोऽनुमन्त्रयते हुत स्तोको हुतो द्र प्सः इति ४
दुग्ध्वा हरति ५
तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्रा य
हविरिन्द्रि यम् इति ६
महेन्द्रा य इति वा यदि महेन्द्र याजी भवति ७
अमूं यस्यां देवानां मनुष्याणां पयो हितम् इति नाम गृह्णाति ८
सा
विश्वायुः इत्यनुमन्त्रयते ९
कुम्भ्यां तिरः पवित्रमानयति
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा इति १०
आनीयमाने विप्रुषोऽनुमन्त्रयते हुत स्तोको हुतो द्र प्सः इति ११
एवमेवोत्तरे दोहयति १२
सा विश्वव्यचाः इति द्वितीयामनुमन्त्रयते । सा
विश्वकर्मा इति तृतीयाम् १३
तिसृषु दुग्धासु वाचं विसृजते बहु दुग्धीन्द्रा
य देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय
कल्पताम् इति । त्रिरुद्वदति १४
महेन्द्रा य इति वा यदि
महेन्द्र याजी भवति १५
१३