१२

शुन्धध्वं दैव्याय कर्मणे देवयज्यायै इति त्रिः १
अथैतानि निष्टपति निष्टप्तँ रक्षो निष्टप्तोऽघशँ सः इति २
अथ गा आयतीः प्रतीक्षते एता आचरन्ति मधुमद् दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गावः इति ३
अदित्यै रास्नासि इत्यभिधानीमादाय पूषासि इति वत्समभिदधाति । पूषा स्थ इति वा सर्वान् ४
तत आह उपसृष्टां मे प्रब्रूतात् इति ५ उपसृष्टामनुमन्त्रयते अयक्ष्मा वः प्रजया सँ सृजामि रायस्पोषेण बहुला भवन्तीः इति ६
उपसीदन्तमनुमन्त्रयते ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुप वः सदेयम् इति ७
ततः सम्प्रेष्यति विहारं गां चोपसृष्टामन्तरेण मा सञ्चारिष्ट इति ८
न दुह्यमानामन्तरेण सञ्चरन्ति विहारं च ९
यदि व्यवेयात् सान्नाय्यं मा विलोपि इति ब्रूयात् १०
धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय गार्हपत्यादुदीचोऽङ्गारान् निरूहति निरूढं जन्यं भयम् इति ११
तेषु कुम्भीमधिश्रयति मातरिश्वनो घर्मोऽसि इति १२
अथैनां प्रदक्षिणमङ्गारैः पर्यूहति भृगूणामङ्गिरसां तपसा तप्यस्व इति १३
अथास्याँ शाखापवित्रं प्रागग्रं निदधाति वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् इति १४ १२