११

ततः सम्प्रेष्यति परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपाँ रस ओषधीनाँ सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिंल्लोके इति १
ततोऽग्नीन् परिस्तृणाति पूर्वाश्चाँ परौ च प्रागग्रैर्दर्भैः २
अपि वोदगग्राः पश्चात् पुरस्ताच्च भवन्ति ३
दक्षिणाः पक्ष उपरिष्टाद् भवत्यधस्तादुत्तरः ४
दक्षिणेनाहवनीयं ब्रह्मयजमानयोरायतने कल्पयति ५
पूर्वं ब्रह्मणोऽपरं यजमानस्य ६
स्वयं यजमानः पर्वण्यग्निहोत्रं जुहोति ७ नास्यामावास्याँ रात्रिं कुमारा अपि पयः पिबन्ति ८ यवाग्वास्यैताँ रात्रिमग्निहोत्रँ हुत्वाग्निहोत्रोच्छेषणँ हविरातञ्चनं निदधाति ९
सान्नाय्यपात्राणि प्रक्षाल्य द्वन्द्वं प्रयुनक्ति १० उत्तरेण गार्हपत्यं कुम्भीं दोहनँ शाखापवित्र-मुपवेषमभिधानीं निदाने येन चार्थी भवति ११
अग्निहोत्रहवण्यां तिरः पवित्रमप आनीयोदगग्राभ्यां त्रिरुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्या १२ अथैना अभिमन्त्रयते आपो देवीरग्रेपुवः इति प्रतिपद्य प्रोक्षिता स्था इत्यन्तेन १३
सान्नाय्यपात्राणि प्रोक्षत्युत्तानानि पर्यावृत्य १४
११