उल्मुकमपिसृजति अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा ।
प्रादाः पितृभ्यः स्वधया ते अक्षन् प्रजानन्नग्ने पुनरप्येहि देवान् इति १
प्राजापत्ययर्चा पुनरेति प्रजापते इत्येतया २
पङ्क्त्या
गार्हपत्यमुपतिष्ठते यदन्तरिक्षं पृथिवीमुत
द्याम् इति ३
अग्नौ सकृदाछिन्नं प्रहृत्याद्भिः प्रोक्ष्य द्वन्द्वं
पिण्डपितृयज्ञपात्राणि प्रत्युदाहरति ४
अपः
पिण्डानभ्यवहरेद्ब्राह्मणं वा
भोजयेदग्नौ वा प्रहरेत् ५
ये समानाः समनसः पितरो यमराज्ये । तेषाँ लोकः
स्वधा नमो यज्ञो देवेषु कल्पताम् इति प्रथमं पिण्डं प्रहरति ६
ये सजाताः
समनसो जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पतामस्मिंल्लोके शतँ
समाः इतीतरौ ७
पत्नी वा मध्यमं पिण्डं प्राश्नाति ८
पुमाँ सँ ह जानुका
भवतीति विज्ञायते ९
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह
पितरो लोके दीर्घमायुः प्रजीवितात् इति प्राशन आम्नातो भवति १०
सन्तिष्ठते पिण्डपितृयज्ञः ११
एवंविहित
एवानाहिताग्नेर्भवत्यन्यत्र
गार्हपत्योपस्थानात् १२
अन्यं गार्हपत्यस्थानीयमागमयेदित्येकम् १३
यस्मिन्
प्रहरेत् तमुपतिष्ठेतेत्यपरम् १४
तत्र गार्हपत्यशब्दो लुप्येत सँ
स्कारप्रतिषेधात् १५
१०