०९

अथ यदि बन्धुनाम न विदितं स्वधा पितृभ्यः पृथिवीषद्भ्यः इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः इति द्वितीयँ स्वधा पितृभ्यो दिविषद्भ्यः इति तृतीयम् १
तूष्णीं चतुर्थं पिण्डं निधाय अत्र पितरो यथाभागं मन्दध्वम् इत्युक्त्वा पराङावर्तते २
ओष्मणो व्यावृत उपास्ते ३
व्यावृत्त ऊष्म-ण्यभिपर्यावर्ततेऽव्यावृत्ते वा अमीमदन्त पितरः सोम्याः इति ४
अभिपर्यावृत्य यः स्थाल्याँ शेषस्तमवजिघ्रति वीरं धत्त पितरः इति ५
आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय सन्नन्नं नाद्यात् तेन प्राश्य इति विज्ञायते ६ तथैवोदकाञ्जलीनुपनिनीयाञ्जनाभ्यञ्जने ददाति आङ्क्ष्वासौ ॥ अभ्यङ्क्ष्वासौ इति त्रिरनुपिण्डम् ७
एतानि वः पितरो वासाँ स्यतो नोऽन्यत् पितरो मा योष्ट इति लोम छित्त्वोपन्यस्यति वाससो वा दशाम् ८
उत्तर आयुषि लोम छिन्दीत ९
छित्त्वा नमस्कारैरुपतिष्ठते नमो वः पितरो रसाय इति प्रतिपद्य अहं तेषां वसिष्ठो भूयासम् इत्यन्तेन १० अथ पितॄनुत्थापयति उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुवेता पुराणम् । धत्तादस्मासु द्र विणं यच्च भद्रं प्र णो ब्रूताद् भागधान् देवतासु इति ११
पितॄन् प्रवाहयति परेत पितरः सोम्याः इत्येतया १२
मनस्वतीभिरुपतिष्ठते मनो न्वा हुवामहे इति तिसृभिः १३