०८

अध्वर्युर्यज्ञोपवीती दक्षिणं जान्वाच्य मेक्षणेन स्थालीपाकस्योपहत्याभिघार्य जुहोति । सोमाय पितृपीताय स्वधा नमः इति प्रथमाम् १
यमायाङ्गिरस्वते पितृमते स्वधा नमः इति द्वितीयाम् २
ये मेक्षणे तण्डुलास्तान् अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः इति तृतीयाम् ३
तूष्णीं मेक्षणमादधाति ४ दक्षिणाग्नेरेकोल्मुक्तं निरूहति ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये हरन्त्यग्निष्टांल्लोकात् प्रणुदात्वस्मात् इति ५
यजमानः सव्यं जान्वाच्य प्राचीनावीती त्रीनुदकाञ्जलीनेकस्फ्यायामुपनिनयति असाववनेनिङ्क्ष्व इति पितरम् असाववनेनिङ्क्ष्व इति पितामहम् असाववनेनिङ्क्ष्व प्रपितामहम् ६ अत्रैव नामादेशमवाचीनपाणि-र्दक्षिणापवर्गास्ँत्रीन् पिण्डान् निदधाति एतत्ते तत ये च त्वामनु इत्येतैर्मन्त्रैः ७
अथ यदि द्विपिता स्यात् प्रतिपूरुषं पिण्डान् दद्यात् ८
अपि वैकैकस्मिन् पिण्डे द्वौद्वावुपलक्षयेत् ९
अथ यदि जीवपिता स्यात् पितामहाय प्रपितामहाय च दद्यात् १०
न जीवन्तमतिददातीत्येकेषाम् ११
होमान्तमेव कुर्वीत १२