अमावास्यायामधिवृक्षसूर्ये पिण्डपितृयज्ञेन चरन्ति १
दक्षिणाप्रागग्रैर्दर्भैरन्वा-हार्यपचनं
परिस्तीर्यैकैकशः पिण्डपितृयज्ञपात्राणि प्रक्षाल्य प्रयुनक्ति स्फ्यँ
स्रुवमाज्यस्थालीं मेक्षणं कृष्णाजिनमुलूखलं मुसलँ शूर्पं येन
चार्थी भवति २
अध्वर्युर्यज्ञोपवीती दक्षिणतः शकटादेकपवित्रेऽधि
स्थाल्यां निर्वपति ३
पूरयित्वा निमार्ष्टि ४
कृष्णाजिन उलूखलं
प्रतिष्ठाप्य दक्षिणाप्राची पत्नी तिष्ठन्ती परापावमविवेकमवहन्ति ५
सकृत् फलीकरोति ६
दक्षिणाग्नौ जीवतण्डुलमिव श्रपयित्वोत्पूतेन
नवनीतेनाभिघारयत्यनुत्पूतेन वा सर्पिषा ७
दक्षिणपूर्वेणान्वाहार्यपचनमुत्तरापरेण
वा दक्षिणाप्राचीमेकस्फ्यां वेदिमुद्ध-त्यावोक्ष्य सकृदाच्छिन्नेन बर्हिषा
स्तृणाति
सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् ।
अस्मिन् सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सह ॥
इति ८
तस्यामेतँ स्थालीपाकं प्रतिष्ठाप्य दक्षिणतः
कशिपूपबर्हणमाञ्जनम-भ्यञ्जनमित्येकैकश
आसाद्य ९
७