श्वो भूत इध्माबर्हिषी व्रतोपेते पौर्णमास्यां कुर्यात् १
पूर्वेद्युरेवामावास्यायाम् २
याथाकामी
पौर्णमास्यामित्यपरम् ३
दर्भमयं वेदं करोति वेदोऽसि येन त्वं देव वेद
देवेभ्यो वेदोऽभवस्तेन मह्यं वेदो भूयाः इति ४
वत्सज्ञुं पशुकामस्य
मूतकार्यमन्नाद्यकामस्य त्रिवृतं ब्रह्मवर्चसकामस्य । त्रिवृच्छिरसं
ब्रुवते ५
नित्यवत् पूर्वौ कल्पावेके समामनन्ति ६
अथैनं
प्रादेशमात्रे परिवासयति ७
शुल्बात् प्रादेशमात्र इत्येकेषाम् ८
प्रज्ञातानि वेदाग्राणि निधाय यया शाखया वत्सानपाकरोति तस्या अन्तर्वेदि
पलाशानामेकदेशं प्रशातयति ९
मूलतः शाखां परिवास्य तमुपवेषं करोति
उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्रा य हविः
कृण्वन्तः शिवः शग्मो भवासि नः इति १०
अथास्या दर्भमयं प्रादेशमात्रं
पवित्रं करोति त्रिवृदवलयं वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि
सहस्रधारम् इति ११
मूले मूलमवसजत्यग्रेऽग्रम् । न ग्रन्थिं
करोति १२
क्रियमाणं यजमानोऽनुमन्त्रयते
त्रिवृत्पलाशे दर्भ इयान् प्रादेशसम्मितः ।
यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ॥
इति १३
परिसमूहन्त्यग्न्यगाराण्युपलिम्पन्त्यायतनानि १४
यावच्छर्करँ
सान्नाय्यकुम्भ्यौ गोमयेनोपलिप्ते भवतः १५
अलङ्कुर्वाते यजमानः
पत्नी च १६
६