०५

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।

तासां पर्व राध्यासं परिस्तरमाहरन् ॥

अपां मेध्यं यज्ञियँ सदेवँ शिवमस्तु मे ।

आछेत्ता वो मा रिषं जीवानि शरदः शतम् ॥

अपरिमितानां परिमिताः सन्नह्ये सुकृताय कम् ।

एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्तु ॥

इति परिस्तरणानां दर्भाणामधिनिधान्याछेदनी सन्नहनीत्येता आम्नाता भवन्ति १ एकविँ शतिदारुमिध्मं करोति पालाशं खादिरं वा २
अष्टादशदारुमिध्मँ सन्नह्यतीत्येकेषाम् ३
पञ्चदश सामिधेनीदारूणि भवन्ति ४
त्रयः परिधयः ५
पालाशाः कार्ष्मर्यमया वा शुष्का वाद्रा र्वा सवल्कलाः ६ अथो खादिरा बैल्वा औदुम्बरा वैकङ्कता रौहितका वेति विज्ञायते ७
स्थविष्ठो मध्यमो-ऽणीयान् द्रा घीयान् दक्षिणार्ध्योऽणिष्ठो ह्वसिष्ठ उत्तरार्ध्यः ८
द्वे आघारसमिधौ ९
अनूयाजसमिदेकविँ शी १०
समूलानाममूलानां वा दर्भाणामयुग्धातु तथैव शुल्बं करोति ११ तस्मिन्निध्मँ सम्भरति १२

यत् कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् ।

ततस्त्वामेकविँ शतिधा सम्भरामि सुसम्भृता ॥

त्रीन् परिधीँस्तिस्रः समिधो यज्ञायुरनुसञ्चरान् ।

उपवेषं मेक्षणं धृष्टिँ सम्भरामि सुसम्भृता ॥

इति सन्नह्यति १३
कृष्णोऽस्याखरेष्ठः ॥

देव पुरश्चर सघ्यासं त्वा इति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति १४ अथैनमनधः सादयित्वा प्रज्ञातानीध्मप्रव्रश्चनानि निदधाति १५