या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।
तासां पर्व राध्यासं परिस्तरमाहरन् ॥
अपां मेध्यं यज्ञियँ सदेवँ शिवमस्तु मे ।
आछेत्ता वो मा रिषं जीवानि शरदः शतम् ॥
अपरिमितानां परिमिताः सन्नह्ये सुकृताय कम् ।
एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्तु ॥
इति परिस्तरणानां दर्भाणामधिनिधान्याछेदनी सन्नहनीत्येता आम्नाता भवन्ति १
एकविँ शतिदारुमिध्मं करोति पालाशं खादिरं वा २
अष्टादशदारुमिध्मँ
सन्नह्यतीत्येकेषाम् ३
पञ्चदश सामिधेनीदारूणि भवन्ति ४
त्रयः
परिधयः ५
पालाशाः कार्ष्मर्यमया वा शुष्का वाद्रा र्वा सवल्कलाः ६
अथो खादिरा बैल्वा औदुम्बरा वैकङ्कता रौहितका वेति विज्ञायते ७
स्थविष्ठो
मध्यमो-ऽणीयान् द्रा घीयान् दक्षिणार्ध्योऽणिष्ठो ह्वसिष्ठ
उत्तरार्ध्यः ८
द्वे आघारसमिधौ ९
अनूयाजसमिदेकविँ
शी १०
समूलानाममूलानां वा दर्भाणामयुग्धातु तथैव शुल्बं करोति ११
तस्मिन्निध्मँ सम्भरति १२
यत् कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् ।
ततस्त्वामेकविँ शतिधा सम्भरामि सुसम्भृता ॥
त्रीन् परिधीँस्तिस्रः समिधो यज्ञायुरनुसञ्चरान् ।
उपवेषं मेक्षणं धृष्टिँ सम्भरामि सुसम्भृता ॥
इति सन्नह्यति १३
कृष्णोऽस्याखरेष्ठः ॥
देव पुरश्चर सघ्यासं त्वा इति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति १४
अथैनमनधः सादयित्वा प्रज्ञातानीध्मप्रव्रश्चनानि निदधाति १५
५