देवबर्हिः शतवल्शं विरोह इत्यालवान् प्रत्यभिमृशति १
सहस्रवल्शा वि वयँ
रुहेम इत्यात्मानम् २
अथैनत् सम्भरति पृथिव्याः सम्पृचः पाहि
सुसम्भृता त्वा सम्भरामि इति ३
अत एव बर्हिषः शुल्बं करोति
त्रिधातु पञ्चधातु वा ४
अयुपितो योनिः इति शुल्बमावेष्टयति ५
अदित्यै
रास्नासि इति प्रतिदधाति ६
तत्रैषोऽत्यन्तप्रदेशो यानि कानि च शुल्बानि
न समस्यन्ते प्रदक्षिणं तान्यावेष्टयेत् ७
अथ यानि समस्यन्ते प्रसव्यं
तेषां गुणमावेष्ट्य प्रदक्षिण-मभिसमस्येत् ८
उदगग्रँ शुल्बं
निधाय तस्मिन् प्रागग्रं बर्हिर्निदधाति ९
अलुभितो योनिः
इत्युत्तमे निधने प्रस्तरमत्यादधाति १०
अथैनत् सन्नह्यति
इन्द्रा ण्यै सन्नहनम् इति ११
पूषा ते ग्रन्थिं ग्रथ्नातु इति
ग्रन्थिं करोति १२
स ते मा स्यात् इति
पश्चात्प्राञ्चमुपगूहति १३
पुरस्तात्प्रत्यञ्चमित्येकेषाम् १४
अथैनदारभते
आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः ।
बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभे ॥
इति १५
उद्यच्छते इन्द्र स्य त्वा बाहुभ्यामुद्यच्छे इति १६
शीर्षन्नधिनिधत्ते बृहस्पतेर्मूर्ध्ना हरामि
इति १७
आहरति उर्वन्तरिक्षमन्विहि इति १८
अपरेणाहवनीयं परिधीनां
कालेऽन्तर्वेद्यनधः सादयति अदित्यास्त्वोपस्थे
सादयामि इति १९
देवङ्गममसि इत्यासन्नमभिमन्त्रयते २०
उपरीव
प्रज्ञातं निदधाति २१
४