०३

ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः इति यजमानस्य गृहानभिपर्यावर्तते १ अग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीँ शाखामुपगूहति यजमानस्य पशून् पाहि इति २
पश्चात्प्राचीमित्येकेषाम् ३
यो वा अध्वर्योर्गृहान् वेद गृहवान् भवति । आ चतुर्थात् कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामीति । एते वा अध्वर्योर्गृहाः । य एवं वेद गृहवान् भवतीति विज्ञायते ४
सावि-त्रेणाश्वपर्शुमनडुत्पर्शुमसिदं वादाय गार्हपत्यमभिमन्त्रयते यज्ञस्य घोषदसि इति ५
प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इत्याहवनीये दात्रं प्रतितपति ६
प्रेयमगाद्धिषणा बर्हिरच्छ इति प्राङ् वोदङ् वाभिप्रव्रज्य यतः कुतश्च दर्भमयं बर्हिराहरति ७
विष्णो स्तूपोऽसि इति प्रथमँ स्तम्बमुत्सृजति ८
द्वितीयं परिषौति देवानां परिषूतमसि वर्षवृद्धमसि इति ९
तस्य द्वे तिस्रो वा नाडीरुत्सृजति अवशिष्टो गवां भागः इति १०
स्तम्बमारभते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे इति ११
पर्वणि दाति देवबर्हिर्मा त्वान्वङ् मा तिर्यक् पर्व ते राध्यासमाछेत्ता ते मा रिषम् इति १२ सन्नखं मुष्टिं लुनोति १३
स प्रस्तरो भवति १४
कुल्मिमात्र इत्येकेषाम् १५ ऊर्वस्थिमात्र इत्येकेषाम् १६
स्रुग्दण्डमात्र इत्येकेषाम् १७
अपरिमित इत्येकेषाम् १८
एवमेवायुजो मुष्टींल्लुनोति १९
यदन्यत् परिषव-णादुत्सर्जनादिति सर्वं तत् करोति २० प्रस्तरो युक्तमित्येकेषामयुक्तमि-त्येकेषाम् २१
अयुञ्जि निधनानि लुनोतीत्येकेषाम् २२