०२

उत्तरस्यादिना पूर्वस्यावसानम् १
मन्त्रान्तैः कर्मादीन् सन्निपातयेत् २
अथ यत्र ह्रस्वो मन्त्रः स्याद् दीर्घं कर्म कर्मादौ मन्त्रं जपेत् ३
अथ यत्र द्वाभ्यां जुहोति पञ्चभिर्जुहोतीति चोदयेत् प्रतिमन्त्रं तत्राहुतीर्जुहुयात् ४
अथ यत्र यज्ञाङ्गे कर्माभ्यावर्तयेन्न मन्त्रोऽभ्यावर्तेत ५
ज्वलत्येव सर्वा आहुतीर्जुहुयात् ६ व्रतमुपैष्यति शाखामच्छैति ७
पलाशशाखाँ शमीशाखां वा ८ सा या प्राच्युदीची प्राची वोदीची वा बहुपर्णा बहुशाखाप्रतिशुष्काग्रासुषिरा तामाछिनत्ति इषे त्वा इति ९
ऊर्जे त्वा इति सन्नमयत्यनुमार्ष्टि वा १० अथैनामाहरति

इमां प्राचीमुदीचीमिषमूर्जमभिसँ स्कृताम् ।

बहुपर्णामशुष्काग्राँ हरामि पशुपामहम् ॥

इति ११
तया षडवरार्ध्यान् वत्सानपाकरोति वायव स्थोपायव स्थ इति १२ यावतीनामेका कुम्भी दुग्धँ सम्भरेत् तावती परार्ध्या मात्रा स्यात् १३
एकँ शाखयोपस्पृशति १४
तयैव गाः प्रस्थापयति देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया इन्द्रा य देवभागमिति १५
महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १६
एकाँ शाखयोपस्पृशति १७
प्रस्थिता अनुमन्त्रयते

शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्रा य शरदो दुहानाः ।

रुद्र स्य हेतिः परि वो वृणक्तु ॥

इति १८
महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १९