१२

यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत यां दिशमभिप्रस्थितः स्यात् तामस्याग्निभिः कक्षं दहेयुः १
अपि वा त्रीणि षष्टिशतानि पलाशवृन्तानां तैः कृष्णाजिने पुरुषाकृतिं कुर्वन्ति । पलाशवल्कैः कुशैर्वा सन्धिषु संवेष्ट्य चत्वारि ँशता शिरः प्रकल्पयते । दशभिर्ग्रीवाम् । वि ँशत्योरः । त्रि ँशतोदरम् । पञ्चाशतापञ्चाशतैकैकं बाहुम् । ताभ्यामेव पञ्चभिःपञ्चभिर-ङ्गुलीरुपकल्पयते । सप्तत्यासप्तत्यैकैकं पादम् । ताभ्यामेव पञ्चभिः-पञ्चभिरङ्गुलीरुपकल्पयते । अष्टाभिः शिश्नम् । द्वादशभिर्वृषणम् । तैः कृष्णाशिने पुरुषाकृतिं कृत्वा स्नापयित्वालङ्कृत्यान्तर्वेदि कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य बान्धवाः पर्युपविशन्ति अयमस्यसौ यस्य त इमेऽग्नयः इति ३ प्रेतेऽमात्याः इत्येतदादि कर्म प्रतिपद्यते ४
यदि तानि न विन्देरन् नवानां दर्भाणां याज्ञिकानां वा वृक्षाणां वृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति विज्ञायते ५
यदि तानि न विन्देरन् भूम्यां पाँ सूनुद्धृत्य तैः कृष्णाशिने पुरुषाकृतिं कृत्वा मधुना सर्पिषा वा सँ सृज्य विधिना दहेयुः ६
यद्येवं कृते पुनरागच्छेद् घृतकुम्भादुन्मग्नस्य जातकर्मप्रभृति द्वादशरात्रं व्रतं चरित्वा तयैव जाययाग्नीनाधाय व्रात्येन पशुना यजेत ७
गिरिं गत्वाग्नये कामायेष्टिं निर्वपेत् ८
ईप्सितैः क्रतुभिर्यजेतेति विज्ञायते ९
१२

इति द्वितीयः प्रश्नः