तानि ग्राममर्यादायां प्रतिष्ठाप्याग्नीन् पैतृमेधिकं च भाण्डं निर्हरन्ति १
नासति यजमाने ग्राममर्यादामग्नीनतिहरेयुः । यद्यतिहरेयुर्लौकिकाः
सम्पद्येरन्निति विज्ञायते २
प्रवसन् यजमानोऽग्निभ्यः परिदाय
गृहानेति । तस्माद् ग्राममर्यादां नातिहरन्ति ३
शरीरैरग्नीन् समानीय
दहनवदवकाशं जोषयित्वा प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ४
तयोर्यः पूर्वो म्रियेत यजमानः पत्नी वा तस्याग्नित्रेतायां
पितृमेधः सम्पद्यते ५
यः पश्चात्तस्यौपासनेन ६
सहैव प्रमीते सहैव
पितृमेधः ७
दारकर्मणि यद्यशक्त आत्मार्थमग्न्याधेयं
कुर्याद्दर्श-पूर्णमासाग्रयणार्थं च । शेषाणि
कर्माणि न भवन्ति ८
यद्याहिताग्निः पशुभ्यो म्रियेत आ गावो
अग्मन् इति द्वे चतुर्गृहीते जुहुयात् ९
यद्याहिताग्निरशनिहतो
म्रियेत तस्य प्रायश्चित्तं मूर्धानं दिवो अरतिं पृथिव्याः इति
चतुर्गृहीतं जुहुयात् । एतदेवास्य प्रायश्चित्तं भवति १०
यद्याहिताग्निर्विषदष्टो म्रियेत तस्य प्रायश्चित्तं नमो अस्तु
सर्पेभ्यः इति तिसृभिश्चतुर्गृहीता आहुतीर्जुहुयात् ११
यद्याहिताग्निरप्सु म्रियेत तस्य प्रायश्चित्तं इमं मे वरुण ॥
तत्त्वा यामि इति द्वे चतुर्गृहीते जुहुयात् १२
यद्याहिताग्निर्द ँ!
ष्ट्रिभ्यो म्रियेत तस्य प्रायश्चित्तं दँ ष्ट्राभ्यां मलिम्लून्
इति द्वे चतुर्गृहीते जुहुयात् १३
११