१०

यद्याहिताग्निरध्वानं गच्छेत् सहाग्नित्रयेण पार्श्वतोऽग्निहोत्रेणानुव्रजेदाहिताग्निर-नन्तरम् १
न व्यवेयात् २
यावत्यो ग्राममर्यादा नद्यश्च तावतीरतिक्रामन्न-न्वारभेत । अनन्वारम्भणे लौकिका भवन्ति ३
यदि पत्नी सीमान्त आदित्यो-ऽभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्तिः ४
यद्यात्मन्यरण्योर्वा समारूढेष्वग्निषु यजमानो म्रियेत पूर्ववदग्न्यायतनानि कल्पयित्वा यज-मानायतने प्रेतं निधाय गार्हपत्यायतने लौकिकमग्निमुपसमाधाय प्रेतस्य दक्षिणं पाणिमभिनिधाय तत्पुत्रो भ्राता वान्यो वा प्रत्यासन्नबन्धुः उपावरोह इत्युपावरोहयति । अपि वा

उपावरोह जातवेद इमं तँ स्वर्गाय लोकाय नय प्रजानन् ।

आयुः प्रजाँ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे ॥

इति लौकिकेऽग्नावुपावरोहयति ५
अरण्योर्वोपावरोह्य मन्थेत् ६
यदरण्योः समारूढः स्यान्निर्वर्तमाने प्रेतमन्वारम्भयित्वैतं मन्त्रं जपेत् ७
विहरणादि समानम् ८
प्रवासमरणे सङ्ग्रामे वाहने वा शरीरमादाय विधिना दाहयेत् ९
आहिताग्निं जने प्रमीतमुपश्रुत्याग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् । पूर्णाहुतिं वा कुर्यात् । प्राचीनावीती जुहोतीत्येके १०
एतस्मिन्नेव विहारे पैतृमेधिकं कर्म प्रतिपद्यते ११
यद्येतस्मिन्नहनि शरीराण्याहरन्ति यद्यन्य-स्मिँ स्तस्याभिवान्यवत्सायै पयसाग्निहोत्रमित्युक्तम् १२
आहिताग्निं जने प्रमीतं तैलद्रो ण्यामवधाय शकटेनाहरन्ति १३
निर्मन्थ्येन वा दग्ध्वा कृष्णाजिने-ऽस्थीन्युपनह्याहतेन वाससा संवेष्ट्य दीर्घवँ शे प्रबध्यानधो निदधानाः प्रयता मृन्मयभोजिन आहरन्ति १४
१०