०९

उक्तं दीक्षितप्रमीतप्रायश्चित्तम् १
यायावरा ह वै पुरा नाम ऋषय आसँ स्ते-ऽध्वन्यश्राम्यँ स्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहुवुः । तस्माद् यायावर-धर्मेणामयाव्यार्तोऽध्वन्यापत्सु वार्धमासायार्धमासायाग्निहोत्रं जुहुयात् २
प्रतिपदि सायं चतुर्दश चतुर्गृहीतान्युन्नयति । एका समित् । सकृद्धोमः । सकृत् पाणिनिमार्जनम् । सकृदुपस्थानम् । एवं प्रातः । एतावान् विकारः । शेषं प्रकृतिवत् ३
पक्षत्रये पुनराधेयम् ४
अग्नीन् समारोपयते धारयते वौपवसथ्यात् ५
औपवसथ्येऽहनि निर्मथ्यौपवसथ्यादिकं कर्म प्रतिपद्यते यदि समारूढो भवति ६ यद्याहिताग्निरुत्सृष्टाग्निर्विच्छिन्नाग्निर्विधुराग्निर्वा प्रमीयेत न तमन्येन त्रेताग्निभ्यो दहन्तीति ७
विज्ञायते चाधानप्रभृति यजमान एवाग्नयो भवन्ति ८
अथापि ब्राह्मणं तमसो वा एष तमः प्रविशति सह तेन यमाहिताग्निमन्येन त्रेताग्निभ्यो दहन्तीति विज्ञायते ९
तस्य प्राचीनावी-त्यग्न्यायतनान्युद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यायतनेऽरणी सन्निधाय मन्थति

येऽस्याग्नयो जुह्वतो माँ सकामाः सङ्कल्पयन्ते यजमानमाँ सम् ।

जानन्तु ते हविषे सादिताय स्वर्गं लोकमिमं प्रेतं नयन्तु ॥

इति १०
तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा तूष्णी ँहुत्वा प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ११