अथाजस्राणां द्व्यहं त्र्यहँ षडहं द्वादशाहं वा धारयते यावद्वा सँ शयं
मन्येत १
असँ शयेऽजस्रैर्विरम्याग्नय आयुष्मते पुरोडाशमष्टाकपालं
निर्वपेत् २
शतकृष्णलां पञ्चहविष्कां वा यो
ज्योगामयावीत्युक्तम् ३
पुरस्तादायुष्मत्याः पाथिकृत्या वा यजेत ४
ग्रामेऽप्येके पाथिकृती ँसमामनन्ति ५
बहिष्ठो
वानप्रस्थो वारण्यमवतिष्ठेत । ग्रामं वा प्रविशेद्
राज्ञानुमतो ब्राह्मणैश्च सह वनधान्येन ६
अपि वा नाजस्रान् कुर्वीत
। प्राग्दिष्टगमनाद् विहारँ साधयेत् ७
प्रेतेऽपि विहरणमेके समामनन्ति ।
तदनर्धुकं प्रजाया इति विज्ञायते ८
उदगयने प्रमीताः सौर्येण पथा
देवलोकं यान्ति दक्षिणायने सौम्येन पितृलोकमिति विज्ञायते ९
उदगयन
आपूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणमित्युपदिशन्ति १०
यदि
पूर्वपक्षे रात्रौ मरणँ शङ्केत सायमाहुति ँहुत्वा तदैव
प्रातराहुतिं जुहुयात् ११
यद्यपरपक्षे सायं
प्रातराहुतिभिरेनं पूर्वपक्षं नयेत् १२
दर्शं च
कुर्यात् १३
इष्ट्यविभवे
प्रधानदेवताभ्यश्चतुर्गृहीतान्याज्या-न्येकैकस्यै
देवतायै पुरोनुवाक्यामनूच्य याज्यया जुहुयात् १४
अथ यदि चातुर्मास्यमध्ये
पूर्ववदेव सायम्प्रातराहुतिभिर्दर्शपूर्णमासाभ्यां चेष्ट्वावशिष्टानि
पर्वाण्यानीय सँ स्थापयेत् १५
पश्वविभवे तद्दैवतं पुरोडाशमामिक्षां
पूर्णाहुतिं वा कुर्यात् १६
म्रियमाणस्यैवं न यज्ञलोपो भवतीति
विज्ञायते १७
८