व्याहृतिपर्यन्तँ हविर्जुहोति १
अथार्कपर्णान्यौदुम्बरपर्णानि वा निधाय
मध्यमायामुत्तरवेद्यां यमाय हविर्निवेदयन्ते
यमाय सोमँ सुनुत यमाय जुहुता हविः ।
यमँ ह यज्ञो गच्छत्यग्निदूतो अरङ्कृतोम् ॥
इति । प्रतीच्यामुत्तरवेद्याम्
यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
स नो देवेष्वा यमद् दीर्घमायुः प्रजीवसोम् ॥
इति । प्राच्यामुत्तरवेद्याम्
यमाय मधुमत्तमँ राज्ञे हव्यं जुहोतन ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्योम् ॥
इति । दक्षिणस्यामुत्तरवेद्याँ श्वभ्याँ हविर्निवेदयन्ते
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा ।
ताभ्यामेनं परिदेहि राजन् स्वस्ति चास्मा अनमीवं च धेह्योम् ॥
इति । उत्तरस्यामुत्तरवेद्यां यमदूताभ्याँ हविर्निवेदयन्ते
उरुणसावसुतृपावुलुम्बलौ यमस्य दूतौ चरतो वशाँ अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दत्तावसुमद्येह भद्रो म् ॥
इति २
योऽस्य कौष्ठ्यः इति तिसृभिर्यमगाथाभिस्त्रिः प्रदक्षिणं परिगायन्ति ३
दक्षिणेन करकूपं गत्वा प्राचीनावीतं कृत्वा सव्यं जान्वाच्य हविरादाय
मिषं मिषँ स्वधा पितृभ्यः इति पिण्डं ददाति ४
त्रीनुदकाञ्जलीनुपनिनीयायम्य
प्राणान् सप्तभिर्व्याहृतिभिः सप्त पदानि प्राञ्चो गच्छन्ति ५
त्रीन् हि
स्वर्गा-ल्लो ँकानारूढा भवन्तीति विज्ञायते ६
दधिक्राव्णो
अकारिषम् इति पुनः प्राणानायम्य यथेतं प्रत्येत्य नमः
करकूपेभ्यो नमः करकूपेभ्यो नमः करकूपेभ्यः इति करकूपमुपस्थाय
यस्मै कामाय यममभिवादयन्ते ७
यमो दाधार इत्यनुवाकशेषेण
हविरुद्धरन्ति ८
नाके सुपर्णम् इति प्रवाहयन्ति ९
उरुँ हि राजा वरुणश्रकार इत्यनुवाकेनापोऽवगाहन्ते १०
आपोहिष्ठीयाभिर्मार्जयन्ते ११
यमेन दत्तं त्रित एनमायुनक् इति चतसृभिरादित्यमुपस्थाय
प्रतिसरमाबध्नीरन् १२
हविषा सर्वप्रायश्चित्तानि
हुत्वा हविःशेषान् भक्षयन्ति भक्षोऽस्यमृतभक्षः इति १३
भक्षस्य शेषं
नयन्ति पुत्राय प्रियाय प्रियवादिने पुत्रभार्यायै । पुत्रवान् भवति
पुत्रवती भवतीति वैवस्वतोऽब्रवीत् ।
यमो ह यष्टारमितःप्रयातमङ्के समाधाय पितेव पुत्रम् ।
सकृद् गतिं गमयति तत्र लोकान्
निवर्तने चास्य छिनत्ति पन्थानं निवर्तने चास्य छिनत्ति पन्थानम् ॥
इति १४
७