यमयज्ञं स्वयं प्रोक्तं प्रवक्ष्ये बलिमुत्तमम् ।
मासि मासि तु कर्तव्यो ह्यन्तकाय बलिस्तथा ॥
मेधाकामोऽर्थकामो वा पुत्रकामस्तु वै द्विजः ।
याम्येऽहनि सुनक्षत्रे सर्वान् कामान् समश्नुते ॥
संवत्सरस्य कार्तिक्यां बलिं कुर्वीत यत्नतः ।
अकुर्वन् यस्तु कार्तिक्यां नरके स निमज्जति ॥
तस्मात् कुर्वीत कार्तिक्यां स्वर्गकामस्तु वै द्विजः ।
तिलप्रस्थस्य कर्तव्यं गुडमिश्रं तथा हविः ॥
एकेन तु न कर्तव्यः कर्तव्यो बहुभिः सह १
हविरुद्धृत्याभिमन्त्र्य हविरादाय नमो ब्रह्मणे प्रजापतये देवेभ्य
ऋषिभ्यः पितृभ्यो यमाय इत्युक्त्वा ग्रामात् प्राचीमुदीचीं वा
दिशमुपनिष्क्रम्या-निरिणवद्देशे नदीतीरे समे वान्यस्मिन् शुचौ देशे
दिक्स्रक्तिं वेदिं करोति २
तस्यां वेद्यां पञ्चोत्तरवेद्यो
दिक्स्रक्तयो भवन्ति ३
दक्षिणेन करकूपं खात्वोत्तरेणाग्निं
प्रतिष्ठाप्य दर्भैः सोत्तरवेदि ँसम्प्रच्छादयति ४
प्रागग्रैर्दर्भैर्विष्टरं निधाय प्रस्तरं च
आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता ।
आसीदताँ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्योम् ॥
इति यममावाह्य यमे इव यतमाने यदैतम् इति च ५
इमं यम प्रस्तरमा हि सीद इति
तिसृभिः प्रस्तरमभिमन्त्र्य सपवित्राण्यर्घ्यपाद्याचमनीयोदकानि
दत्त्वा सार्वसुरभिगन्धधूपदीपमाल्यं च यथोपलब्धं ददाति कृष्णाः
प्रतिसराः कृष्णसूत्रं च ६
मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति यमाय
स्वाहा ॥ अन्तकाय स्वाहा ॥ धर्माय स्वाहा ॥ अन्ताय स्वाहा ॥ अनन्ताय
स्वाहा ॥ वैवस्वताय स्वाहा ॥ कालाय स्वाहा ॥ मृत्यवे स्वाहा ॥
विष्णवे स्वाहा ॥ भूः स्वाहा ॥ भुवः स्वाहा ॥ सुवः स्वाहा ॥
भूर्भुवः सुवः स्वाहा इति ७
६