इष्टकाः प्रतिदिशमनन्वीक्षमाण उपदधाति पृथिव्यास्त्वा लोके सादयामि
इत्येतैः प्रतिमन्त्रं मध्ये पञ्चमीं तां दक्षिणेन षष्ठीम् १
एवं चरून् अपूपवान् इति प्रतिमन्त्रम् २
अतिलाभिर्धानाभिस्त्रिः प्रसव्यं
परिकिरति एतास्ते स्वधा अमृताः करोमि इति ३
ओषधिस्तम्बान्
प्रतिदिशमनन्वीक्षमाण उपदधाति
त्वामर्जुन इति प्रतिमन्त्रम् ४
तेषां
मन्त्रलिङ्गैर्नियमः ५
लोकं पृण इति
लोकम्पृणा उपदधाति ६
उत्तरया पुरीषेणानुविकिरति ७
श्मशानस्य
मात्रा द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं प्रादेशो
वितस्तिर्जानुदघ्नमूरुदघ्नं स्फिग्दघ्नं वा ८
उत्तमां मात्रां नात्याप्नुयात् ९
यावतीं
पुरस्तात्ततोऽनन्तरां पश्चात् १०
अपि वा द्व्यङ्गुलं पुरस्तात् समम्भूमिं पश्चात् ११
उदपात्रेणोदुम्बरशाखयावोक्षति शं वातः
इति १२
आरोहणं जपत्यवरोहणं जपति १३
उपस्थानेनोपतिष्ठते इदमेव मेतोऽपराम्
इति १४
वारणशाखां पुरस्तान्निदधाति वरणो वारयात् इति १५
विधृतिलोष्टमुत्तरतः विधृतिरसि इति १६
शमीशाखां
पश्चात् शमि शमय इति १७
यवं दक्षिणतः यव यवय इति १८
अथैनमुपतिष्ठते
पृथिवीं गच्छान्तरिक्षं गच्छ इति १९
जघनेन चितिं कर्ष्वादि
समानमा स्नानात् २०
मृदा स्नातीत्येके २१
५