०४

व्युष्टायाँ हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनँ सम्मार्ष्टि अपेत वीत इति १
दक्षिणतः शाखामुदसित्वाप उपस्पृश्योद्धत्यावोक्ष्य सवितैतानि शरीराणि इति सीरं युनक्ति षड्गवं द्वादशगवं चतुर्वि ँशतिगवं वा २
यावद्गवँ सीरं तावन्ति शतानीष्टकानाम् ३ आमा भवन्तीति विज्ञायते ४
तस्याश्चतुर्वि शेँन भागेनेष्टकाः करोति पादेष्टकाश्च ५
वारणं काष्ठमयम् ६
मौञ्जँ रज्जुमयम् ७ वचनादन्यत् ८
शुनं वाहाः इति द्वाभ्यां प्रसव्यावृत्ताः षट् पराचीः सीताः कृषति ९
उद्यम्य लाङ्गलँ सीते वन्दामहे इति सीताः प्रत्यवेक्षते १०
सवितैतानि शरीराणि इति मध्ये कृष्टस्यास्थिकुम्भं निदधाति ११ विमुच्यध्वमघ्निया देवयानाः इति दक्षिणे ँऽसे बलीवर्दान् विमुच्य तान् दक्षिणोत्सृज्याध्वर्यवे ददाति १२ उदपात्रेणोदुम्बरशाखयावोक्षति प्र वाता वान्ति इति १३
पात्र्याँ सर्वौषधीः संयुत्य वपति यथा यमाय इति १४
चितः स्थ परिचितः इत्यपरिमिताभिः शर्कराभिः परिश्रित्य आ प्यायस्व समेतु ते इति सिकता व्यूहति १५
उत्तरया त्रिष्टुभा राजन्यस्य १६
जगत्या वैश्यस्य १७ विधृतिलोष्टान् प्रतिदिशमनन्वीक्षमाण उपदधाति उत्ते तभ्नोमि इत्येतैः प्रतिमन्त्रम् १८
तिलमिश्राभिर्धानाभिः त्रिः प्रसव्यं परिकिरति एणीर्धानाः इति १९
अभिवान्यायै दुग्धस्यार्धशरावे मन्थस्त्रिः प्रसव्योपमथित आमपात्रस्थस्तं दक्षिणत उपदधाति एषा ते यमसादने इति २०
समूलं बर्हिर्दक्षिणा स्तृणाति इदं पितृभ्यः प्रभरेम बर्हिः इति २१
पालाशान् परिधीन् परिदधाति २२
मा त्वा वृक्षौ इति पूर्वापरौ २३
उत्तरया दक्षिणोत्तरौ २४
मध्ये नळेषीकां निदधाति नळं प्लवम् इति २५
पुराणेन सर्पिषा शरीराणि सुसन्तृप्तानि सं-तर्प्योत्तरत आसीनोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निवपति सवितैतानि शरीराणि इति २६
यथाङ्गमङ्गानि सन्निधायाथैनमुपतिष्ठते षड्ढोता सूर्यं ते चक्षुः इति २७
भुक्तभोगेन वाससास्थिकुम्भं निमृज्योपर्युपरिशिरो दक्षिणा व्युदस्यति परं मृत्यो अनु परेहि पन्थाम् इति २८
अथास्य कपालानि सु-सम्भिन्नानि सम्भिनत्ति यथैषूदकं न तिष्ठेत् २९
भुक्तभोगेन वाससा शरीराणि प्रच्छाद्योदपात्रेणोदुम्बरशाखयावोक्षति शं वातः इति ३०