श्वो भूते पशुना तदर्थमन्नँ सँ स्कृत्य तदमावास्यायां निदधाति १
अथ यदि
पुनर्धविष्यन्तः स्युस्तदगारं तल्पं वा मिन्वन्ति २
तस्य
पूर्वार्धे मध्ये पश्चार्धे वा पालाशीं मेथीं
त्रिविषूकां निघ्नन्ति ३
पुरस्तादेव शूद्रो
ब्रह्मबन्धुर्वा संवादित उपविशति ४
या स्त्री
मुख्यतमा तामाह वसतिं मया सह पृच्छे इति ५
न ददामि इतीतरा प्रत्याह ६
एवं द्वितीये करोति ७
एकरात्राय ददामि इति तृतीये ८
यावद्गात्रं वा
धविष्यन्तः स्युः ९
एतस्यां वाचि मेथ्या मूले शरीराणि
निदधाति १०
शतातृण्णं च कुम्भं त्रिविषूके ११
तस्य बिलं चर्मणा
कुशैः परिणद्धं भवति १२
तस्मिन् दधि वाजिनमिश्रमानयति वैश्वानरे
हविरिदं जुहोमि इति १३
विक्षरन्तमभिमन्त्रयते द्र
प्सश्चस्कन्द ॥ इमँ समुद्र म् इति द्वाभ्याम् १४
चत्वारो ब्रह्मचारिणोऽन्ये वा ब्राह्मणायना दक्षिणान्
केश-पक्षानुद्ग्रथ्य सव्यान् प्रस्रस्य
दक्षिणानूरूनाघ्नानाश्चर्माघ्नन्तः
सिग्भिरभि-धून्वन्तस्त्रिः प्रसव्यं
परियन्ति अजिनमोय्यजिनमोय्यजिनमोयि इति १५
एवममात्याः
स्त्रियश्चोत्तराभिः सिग्भिर्मन्त्रवर्जम् १६
पूर्ववत्
प्रतिपरिक्रमणम् १७
सम्प्रवदन्ति वीणाशङ्खनाळीतूणवाः १८
नृत्तगीतवादित्राणीति १९
प्रात-र्माध्यन्दिनेऽपराह्ण इति २०
एवँ
रात्रेस्त्रिः २१
अपरपक्षस्य तिस्रो रात्रीर्धुवन्ति पञ्च सप्त
नवैकादशार्धमासं मासम् २२
संवत्सरमु हैके धुवन्ति २३
अन्नं च
यथाशक्ति देयम् २४
तथा द्र व्याणि २५
उत्तम एवाहनि द्र
व्यत्याग इत्येके २६
एतस्मिन्नेवाग्नौ तूष्णीमुपचरितान्
पञ्च चरूञ्छ्रपयन्ति २७
तेषा-मभिघारणानि घृतँ शृतं क्षीरं दधि
मध्विति २८
अपूपापिधाना भवन्ति २९
अपररात्रे गच्छन्त्यग्निः
प्रथमोऽथोदकुम्भोऽनड्वाञ्छरीराणि सम्भारा इति । येन चान्येनार्थी भवति ३०
न हीनमन्वाहरेयुः ३१
अन्तरा ग्रामँ श्मशानं चैतमग्निमिन्धान आस्ते ३२
३