०२

दिष्टगमनादयुक्ष्वहःस्वहोरात्रार्धमासर्तुषु संवत्सरे वा निदधाति १ अप्रज्ञाते याथाकामी २
या माध्याः पौर्णमास्याः फाल्गुन्याश्चैत्र्या वैशाख्या नैदाध्या वोपरिष्टादमावास्या तस्याम् ३
अयुजो युजो वाभ्रीरादायोत्तरतो लोष्टानवरुज्य दक्षिणतो हरन्ति स्थलार्थानिष्टकार्थान् वा ४
पुरस्तादेव श्मशानायत-नादोषधीरुद्धारयन्ति ५
पाठापृश्निपर्णीकर्णिकारराजवृक्षकण्टूकतिल्व-कविभीतकार्कशरश्वदँ ष्ट्राध्यण्डा अन्याश्च क्षीरिणीरनुत्खेयाः ६
अपराह्णे श्मशानायतनँ सम्मिमीते पञ्चपञ्च प्रक्रमान्त्सर्वतः । षट् पुरस्तादित्येके ७
माने परीतान इष्टकोपधान इति दिक्संयोगः ८
सर्वत्र पुरस्तादुपक्रमः । प्रसव्यं दक्षिणतोऽपवर्गः ९ त्रिवृता मौञ्ज्या बाल्बज्या वा रज्ज्वा प्रसव्यावृत्तया त्रिः प्रसव्यं परितत्यायुग्भिरुदकुम्भैः स्ववोक्षितमवोक्षेद्यथा प्राणदुत्सर्पेत् १०
न प्राणदधि निवपेत् । यदि प्राणदधि निवपेञ्जीवताँ ह तत् प्राणानधि निवपेत् ११
खार्यां तल्पे वा सम्भारानोप्य १२