०१

अथात उत्तरं पैतृमेधं व्याख्यास्यामो यं ब्रह्ममेध इत्याचक्षते १ अथाप्युदाहरन्ति

द्विजातीनामपवर्गो ह्यर्थतस्तत्त्वदर्शिभिः ।

ऋषिभिस्तपसो योगाद्वेष्टितुं पुरुषोत्तमम् ॥

होतॄँ श्च पितृमेधं च सँ सृज्य विधिरुत्तरः ।

विहितस्तु समासेन क्रतूनामुत्तमः क्रतुः ॥

इति २
प्रकृतिविकृतिर्यथा पुरस्तात् ३
तस्य सग्रहैर्होतृभिर्होमः ४ भर्तृसूक्तेन भरणम् ५
पत्नीभिरुपसंवेशनम् ६ दक्षिणाप्रतिग्रहैर्निमार्गः ७ हृदयै-र्हिरण्यशकलाः ८
सम्भारयजुर्भिः पात्रचयनम् ९ ज्योतिष्मतीभिरुपोषणम् १०
नारायणाभ्यामुपस्थानम् ११
ब्राह्मण एकहोता इति चानुमन्त्रणम् १२
चित्तँ सन्तानेन इति हविराहुतिः १३
प्रयासाय स्वाहा इति स्रुवाहुतीः १४
मृत्युसूक्तेनानुशँ सनम् १५
सौम्या सङ्गाहनम् १६ सौर्येणादित्योपस्थानम् १७
ईयुष्टे इत्यवगाहनम् १८
समानमत ऊर्ध्वं पैतृमेधिकं कर्मा यवोदनप्राशनात् १९
तान् परं ब्रह्मेत्याचक्षते २०
तान्न साधारणे श्मशाने प्रयुञ्जीत २१
नानाचार्याय नाश्रोत्रियाय २२
द्विजातीनामेव २३
सन्तिष्ठते ब्रह्ममेधः २४