पृथिव्यामोषधिस्तम्बं प्रतिष्ठापयति यथा त्वमुद्भित्स्योषधे इति १
प्रत्येत्य गृहानुत्तरपूर्वदेशेऽगारस्याग्निमुपसमाधाय
सम्परिस्तीर्यानुलोमकृतया वारण्या स्रुचा द्वे चतुर्गृहीते जुहोति
आनन्दाय प्रमोदाय इति २
अत्रोभयं प्रहरति येन जुहोति ३
अजमेतदहः
पचन्ति यवौदनं च ४
अजोऽसि इत्यजस्य प्राश्नन्ति । यवोऽसि इति
यवौदनस्य ५
अत्रासन्दीस्तल्पानधिरोहन्ति ६
नापित-कर्माणि च
कारयन्ते ७
एष प्रथमोऽलङ्कारः ८
सोऽयमेवंविहित एवाना-हिताग्नेः
पात्रचयेष्टकावर्जम् ९
औपासनेनानाहिताग्निं
दहन्ति १०
निर्मन्थ्येन पत्नीम् ११
उत्तपनेनेतरान् १२
अथैकेषां
कुम्भान्तं निधानमनाहिताग्नेः स्त्रियाश्चनिवपनान्तँ हविर्यज्ञयाजिनः
पुनर्दहनान्तँ सोमयाजिनश्चयनान्तमग्निचित इति १३
नासन्नयतामामिक्षा १४
उत्सर्गो राजगव्या अपशुबन्धयाजिनः स्त्रियाश्च १५
दहनकल्पेन न
कल्पेरन्ननुपेतान् कन्याश्च १६
पुनर्दहनमन्त्रेणैव
दहेयुः १७
स्त्रियाश्चैवम् १८
पुंलिङ्गवपनवर्जमित्येक इत्येके १९
१२
इति प्रथमः प्रश्नः