१२

पृथिव्यामोषधिस्तम्बं प्रतिष्ठापयति यथा त्वमुद्भित्स्योषधे इति १ प्रत्येत्य गृहानुत्तरपूर्वदेशेऽगारस्याग्निमुपसमाधाय सम्परिस्तीर्यानुलोमकृतया वारण्या स्रुचा द्वे चतुर्गृहीते जुहोति आनन्दाय प्रमोदाय इति २
अत्रोभयं प्रहरति येन जुहोति ३
अजमेतदहः पचन्ति यवौदनं च ४
अजोऽसि इत्यजस्य प्राश्नन्ति । यवोऽसि इति यवौदनस्य ५
अत्रासन्दीस्तल्पानधिरोहन्ति ६
नापित-कर्माणि च कारयन्ते ७
एष प्रथमोऽलङ्कारः ८
सोऽयमेवंविहित एवाना-हिताग्नेः पात्रचयेष्टकावर्जम् ९
औपासनेनानाहिताग्निं दहन्ति १०
निर्मन्थ्येन पत्नीम् ११
उत्तपनेनेतरान् १२
अथैकेषां कुम्भान्तं निधानमनाहिताग्नेः स्त्रियाश्चनिवपनान्तँ हविर्यज्ञयाजिनः पुनर्दहनान्तँ सोमयाजिनश्चयनान्तमग्निचित इति १३
नासन्नयतामामिक्षा १४ उत्सर्गो राजगव्या अपशुबन्धयाजिनः स्त्रियाश्च १५
दहनकल्पेन न कल्पेरन्ननुपेतान् कन्याश्च १६
पुनर्दहनमन्त्रेणैव दहेयुः १७
स्त्रियाश्चैवम् १८
पुंलिङ्गवपनवर्जमित्येक इत्येके १९
१२

इति प्रथमः प्रश्नः