११

नवम्यां व्युष्टायां यज्ञोपवीत्यन्तरा ग्रामँ श्मशानं चाग्निमुपसमाधाय सम्परिस्तीर्यापरेणाग्निं लोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमास्तीर्य तद्वेतसमालिनो ज्ञातीनारोपयति आरोहत इति १
अथैनाननुपूर्वान् कल्पयति यथाहानि इति २
प्रतिलोमकृतया वारण्या स्रुचा द्वे चतुर्गृहीते जुहोति नहि ते अग्ने तनुवै इति ३
दश च सुर्वाहुतीः अप नः शोशुचदघम् इति ४
हुत्वाहुत्वा पात्र्याँ सम्पातमवनयति ५
अत्रोभयं प्रहरति येन जुहोति ६
उत्तरेणाग्निं लोहितोऽनड्वान् प्राङ्मुखोऽवस्थितो भवति ७
तं ज्ञातयोऽन्वारभन्ते अनड्वाहमन्वारभामहे इति ८
प्राञ्चो गच्छन्ति इमे जीवाः इति ९
जघन्यो वेतसशाखयावकाभिश्च पदानि संलोपयन्नेति मृत्योः पदम् इति १०
अथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानं परिधिं दधाति इमं जीवेभ्यः परिधिं दधामि इति ११
स्त्रीणामञ्जलिषु सम्पातानवनयति इमा नारीः इति १२
तैर्मुखानि विमृजन्ते १३
यदाञ्जनं त्रैककुदम् इति त्रैककुदेनाञ्जनेनाञ्जीरन् १४
यदि त्रैककुदं नाधिगच्छेयुर्येनैव केनचिदाञ्जनेनाञ्जीरन् १५
११