अथातो हविर्यज्ञियं निवपनम् १
यं कामयेतानन्तलोकः स्यादिति समस्या
उद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते
वाग्यतोऽनन्वीक्षमाणो दर्भेष्वस्थीनि
निवपति पृथिव्यास्त्वा अक्षित्या अपामोषधीनाँ रसेन स्वर्गे लोके
निवपाग्यसौ इति २
अनन्तलोको ह भवतीति विज्ञायते ३
अथ यदि
पुनर्धक्ष्यन्तः स्युरग्निहोत्रहवणीं कृष्णाजिनँ शम्यां
दृषदुपले च नानुप्रहरेयुः ४
अत एवाङ्गारान् दक्षिणा निर्वर्त्य
तिस्रो रात्रीरिद्ध्वा दहनवदवकाशं जोषयित्वाग्निमुपसमाधाय
सम्परिस्तीर्यापरेणाग्निं दक्षिणाग्रान् दर्भान् सँ स्तीर्य तेषु
कृष्णाजिने शम्यायां दृषदुपलाभ्यामवाञ्जनँ शरीराणि सुसम्पिष्टानि
पेषयित्वाज्यकुम्भे समुदायुत्याग्निहोत्रहवण्या जुहोति
अस्मात् त्वमधि जातोऽसि इति ५
एतयैवान्तम् ६
अत्रैवाग्निहोत्रहवणीं
कृष्णाजिनँ शम्यां दृषदुपले चानुप्रहरेयुः ७
न चात ऊर्ध्व ँ!
श्मशानं कर्तुमाद्रि येत ८
आकृती-र्वास्यादहने
निवपेच्छर्कराभिर्वा परिचिनुयात् ९
तमभ्येवादित्यस्तपति तमभि वातो वाति तमापः स्पृशन्ते १०
स
नैवादित्यस्य सकाशाच्छिद्यते न वायोर्नापाँ सँ
सर्जनात् ११
एवँ हि कौषीतकिर्विदाञ्चकार तँ हैवं चक्रुरेवमु ह
हैव-माश्मरथ्यं चक्रुः १२
तस्यो हैवैतेऽहीना हायना
व्युच्छन्तीव्युच्छन्त्यस्मै
वस्यसीवस्यसी व्युच्छति प्रजा हास्य श्रेयसी भवति यमेवं
निदधातीति विज्ञायते १३
१०