१०

अथातो हविर्यज्ञियं निवपनम् १
यं कामयेतानन्तलोकः स्यादिति समस्या उद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते वाग्यतोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निवपति पृथिव्यास्त्वा अक्षित्या अपामोषधीनाँ रसेन स्वर्गे लोके निवपाग्यसौ इति २
अनन्तलोको ह भवतीति विज्ञायते ३
अथ यदि पुनर्धक्ष्यन्तः स्युरग्निहोत्रहवणीं कृष्णाजिनँ शम्यां दृषदुपले च नानुप्रहरेयुः ४
अत एवाङ्गारान् दक्षिणा निर्वर्त्य तिस्रो रात्रीरिद्ध्वा दहनवदवकाशं जोषयित्वाग्निमुपसमाधाय सम्परिस्तीर्यापरेणाग्निं दक्षिणाग्रान् दर्भान् सँ स्तीर्य तेषु कृष्णाजिने शम्यायां दृषदुपलाभ्यामवाञ्जनँ शरीराणि सुसम्पिष्टानि पेषयित्वाज्यकुम्भे समुदायुत्याग्निहोत्रहवण्या जुहोति अस्मात् त्वमधि जातोऽसि इति ५
एतयैवान्तम् ६
अत्रैवाग्निहोत्रहवणीं कृष्णाजिनँ शम्यां दृषदुपले चानुप्रहरेयुः ७
न चात ऊर्ध्व ँ! श्मशानं कर्तुमाद्रि येत ८
आकृती-र्वास्यादहने निवपेच्छर्कराभिर्वा परिचिनुयात् ९ तमभ्येवादित्यस्तपति तमभि वातो वाति तमापः स्पृशन्ते १०
स नैवादित्यस्य सकाशाच्छिद्यते न वायोर्नापाँ सँ सर्जनात् ११
एवँ हि कौषीतकिर्विदाञ्चकार तँ हैवं चक्रुरेवमु ह हैव-माश्मरथ्यं चक्रुः १२
तस्यो हैवैतेऽहीना हायना व्युच्छन्तीव्युच्छन्त्यस्मै वस्यसीवस्यसी व्युच्छति प्रजा हास्य श्रेयसी भवति यमेवं निदधातीति विज्ञायते १३
१०