अपरेद्युस्तृतीयस्यां पञ्चम्याँ सप्तम्यां वारथीनि सञ्चिन्वन्ति १
क्षीरोत्सिक्तेनो-दकेनोदुम्बरशाखयाप्रक्वाथयञ्छरीराण्यवोक्षति
यं ते अग्निममन्थाम इति पञ्चभिः २
अत एवाङ्गारान् दक्षिणा निर्वर्त्य
तिस्रः सुर्वाहुतीर्जुहोति अव सृज इति प्रतिमन्त्रम् ३
अयुग्भिरुदकुम्भैः स्ववोक्षितमवोक्ष्यायुजः स्त्रियः
सं-चिन्वन्ति ४
यस्याः पुनर्विजननं न स्यात् सा सव्ये हस्ते
नीललोहिताभ्याँ सूत्राभ्यां बृहतीफलमाबध्य सव्येन
पदाश्मानमास्थाय सव्येन पाणिना
प्रथमानन्वीक्षमाणास्थीन्यादत्ते उत्तिष्ठातः
इति दद्भ्यः शिरसो वा ५
तद्वाससि कुम्भे वा निदधाति ६
इदं त एकम् इति
द्वितीयाँ साभ्यां बाहुभ्यां वा ७
पर ऊ त एकम् इति तृतीया पार्श्वाभ्याँ
श्रोणिभ्यां वा ८
तृतीयेन ज्योतिषा इति चतुर्थ्यूरुभ्यां जङ्घाभ्यां
वा ९
संवेशनः इति पञ्चमी पद्भ्याम् १०
एवमेवायु-जाकारँ सुसञ्चितँ
सञ्चिन्वन्ति ११
भस्माभिसमूह्य सँ हत्य शरीराकृतिं कृत्वा
शरीराण्यादायोत्तिष्ठति उत्तिष्ठ प्रेहि इति १२
शम्यां पलाशमूले वा कुम्भं
निधाय जघनेन कुम्भं कर्ष्वादि समानमा स्नानात् १३
मृदा स्नातीत्येके १४
९