०८

जघनेन कर्षूः पलाशशाखे शमीशाखे वा निघ्नन्ति १
अथैने दर्भमयेन शुल्बेन सम्बध्य ते अन्तरेण प्रसर्पन्ति यद्वै देवस्य सवितुः पवित्रम् इति २
जघन्यः शाखे व्युदस्यति या राष्ट्रात् पन्नात् इति ३
उद्वयं तमसस्परि इत्यादित्य-मुपस्थायानवेक्षमाणा अपोऽवगाहन्ते धाता पुनातु सविता पुनातु इति ४
केशान् प्रकीर्य पाँ सूनोप्यैकवाससो दक्षिणामुखाः सकृदुपमज्ज्योत्तीर्योप-विशन्ति ५
एवं त्रिः ६ तत्प्रत्ययमुदकमुत्सिच्याहरहरञ्जलिनैकोत्तरवृद्धि-रैकादशाहात् ७
अप्रतीक्षा ग्राममेत्य यत् स्त्रिय आहुस्तत् कुर्वन्ति ८ अनशनानध्ययनाधःशय्योदकोपस्पर्शनान्या कालम् ९
अनूचानेषु द्व्यहं त्र्यहँ षडहं द्वादशाहं वा १० गुरुष्वनशनवर्ज ँसंवत्सरम् ११
मातरि पितर्यार्चाय इत्येके १२ अनशनानध्ययनवर्जं यावज्जीवं प्रेतपत्न्युदकोपस्पर्शनमेकभुक्त-मधःशय्या ब्रह्मचर्यं क्षारलवणमधुमांसवर्जं च १३