अथैनँ सपादवालशीर्षचर्मणोत्तरलोम्ना प्रोर्णोति अग्नेर्वर्म इति १
अथैनमुपोषति मैनमग्ने विदहः इति पुरस्तादाहवनीयेन शृतं
यदा इति पश्चाद्गार्हपत्येन तूष्णीं दक्षिणतोऽन्वाहार्यपचनेन पुरस्तात्
सभ्यावसथ्याभ्यामौपासनेन च २
अथैनमुपतिष्ठते सूर्यं ते चक्षुः इति ३
विज्ञानमुपैति । यद्यूर्ध्वो धूम उदियाद् द्युलोको भवतीति
विज्ञायते । यद्यन्तरिक्षमन्तरिक्षलोकः । यदि पृथिवीं पृथिवीलोकः ४
जघनेन चितिमजमबलेन शुल्बेन सम्बध्नाति ५
अजो भागः
इत्युद्द्रवन्तमनुमन्त्रयते ६
अत्रैतद्धविरिडसूनेन प्पात्र्या चमसेन वा जुहोति अग्नये रयिमते स्वाहा
इति ७
नव च सुर्वाहुतीः य एतस्य पथो गोप्तारः इति ८
अत्रोभयं प्रहरति
येन जुहोति ९
अपरेणाग्निं प्राङ्मुख उपविश्याथैनं याम्येन सूक्तेन
नवर्चेन पराचानुशँ सति प्र केतुना इति १०
जघनेन
दहनदेश-मुदीचीस्तिस्रः कर्षूः
खाट्वाश्मभिः
सिकताभिश्चोपप्रकीर्यायुग्भिरुदकुम्भैरपः
परिप्लाव्य तासु ज्ञातयः सङ्गाहन्ते अश्मन्वती रेवतीः इति ११
७