मुखेऽग्निहोत्रहवणीम् १
नासिकयोः स्रुवौ २
अक्ष्योर्हिरण्यशकलावा-ज्यस्रुवौ
वा ३
कर्णयोः प्राशित्रहरणे भित्त्वा वैकम् ४
हन्वोरुलूखलमुसले ५
दत्सु
ग्राव्णो यदि ग्रावाणो भवन्ति ६
शिरसि कपालानि ७
ललाट एककपालम् ८
उदरे पिष्टसंयवनीं पात्रीम् ९
नाभ्यामाज्यस्थालीम् १०
पार्श्वयोः
शूर्पे छित्त्वा वैकम् ११
वङ्क्ष्णयोः सान्नाय्यकुम्भ्यौ यदि
सन्नयति १२
अण्डयोर्दृषदुपले १३
शिश्ने वृषारवँ शम्यां च १४
प्रतिष्ठयोर-ग्निहोत्रस्थालीमन्वाहार्यस्थालीं च १५
पत्त उपावहरणीयं कूर्चम् १६
वेदँ शिखायाम् १७
शिरस्त
उपसादनीयमिडापात्रं च १८
इममग्ने चमसम्
इति मध्ये चमसम् १९
अवशिष्टान्यन्तरा सक्थिनी २०
स एष यज्ञायुधी
यज-मानोऽञ्जसा स्वर्गं लोकमेतीति विज्ञयते २१
उल्मुके
वियूष्काण्यवदानानि श्रपयित्वा हृदयेऽस्य हृदयं
निदधाति २२
दक्षिणे हस्ते दक्षिणं वृक्यँ सव्ये सव्यँ श्यामशबलाभ्यां
त्वा इति २३
हस्तयोरेव मैत्रावरुणीमामिक्षां मित्रावरुणाभ्यां त्वा
इति २४
वपयास्य मुखं प्रोर्णोति मेदसा शिरः सम्प्रोर्णुष्व मेदसा पीवसा च
इति २५
६