०५

यदि घ्नन्ति ततः सम्प्रेष्यति अपिधाय मुखं दक्षिणापदीं प्रत्यक्छिरसीं घ्नत इति १
निहन्यमानायाँ सव्यानि जानून्यनुनिघ्नन्तः पाँ सूनवमृजन्ते पुरुषस्य सयावरि इति २
अथाह विस्रँ सयत इति ३ विस्रस्यमानामनुमन्त्रयते पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् इति ४
ततः सम्प्रेष्यति अङ्गादङ्गादनस्थिकानि पिशितान्युत्खिद्याप्रक्वाथयन्तोऽप्रच्यावयन्त उल्मुकैः श्रपयतात् प्रज्ञातं हृदयं निधत्तात् प्रज्ञातौ वृक्यौ प्रज्ञातं मेदः प्रज्ञातां वपां प्रज्ञातँ सपादवालशीर्षचर्म इति ५
अत्र पत्नीमुपनिपातयति इयं नारी इति ६
तां पतित्थ एक-धनेनोत्थापयत्यन्यो वा ब्राह्मणः उदीर्ष्व नारि इति ७
अत्र पत्नी साहस्रं वरं ददाति ८
हस्तौ सम्मार्ष्टि ९
सुवर्णेन ब्राह्मणस्य सुवर्ण ँहस्तात् इति १०
धनुषा राजन्यस्य धनुर्हस्तात् इति ११
मणिना वैश्यस्य मणिँ हस्तात् इति १२
अथैनं चितावुपर्यध्यूहति १३
अत्र वा पत्न्याः संवेशनादिक्रियते १४
अथास्य प्राणायतनेषु हिरण्यशल्कान् प्रत्यस्यत्याज्यबिन्दून् वा १५
पात्राणि चिनोति १६ सर्वाण्यनुलोमानि ध्रुवावर्जम् १७
तस्य दक्षिणे हस्ते स्फ्यं जुहूं च निदधाति १८
सव्य उपभृतम् १९
उरसि ध्रुवामरणीं च २०