०४

अथैनमुदरे विदार्य निरान्त्रं निष्पुरीषं कृत्वावटे पुरीषमवधाय प्रक्षाल्य प्रत्यवधाय सर्पिषा पूरयतीति शाट्यायनकम् १
अपि वा न निष्पुरीषं कुर्यात् । यदि कुर्यात् प्रजा हास्य क्षोधुका भवतीति विज्ञायते २
अत्र राज-गवीमुपाकरोति भुवनस्य पते इति जरतीं मूर्खां तज्जघन्यां कृष्णां कृष्णाक्षीं कृष्णवालां कृष्णखुराम् ३
अपि वाक्षिवालखुरमेव कृष्णँ स्यात् ४
तां ज्ञातयोऽन्वारभन्ते ५
अथात्यन्तप्रदेशः । धून्वनेऽन्वारम्भणे सङ्गाहने सँ सर्पण उदकोपस्पर्शन आरोहण इति सर्वत्र कनिष्ठप्रथमा अनुपूर्वा इतरे स्त्रियोऽग्रे ६
तां घ्नन्त्युत्सृजन्ति वा ७
यद्युत्सृजन्ति अपश्याम युवतिमाचरन्तीम् इत्येता-भिस्तिसृभिस्त्रिः प्रसव्यं राजगवीमग्नीन् दारुचितिं च परिणीय ये जीवा इत्यभिमन्त्र्य माता रुद्रा णाम् इति द्वाभ्यामुत्सृजन्ति ८