परीत्यपरीत्य प्रयौतीत्येके १
आदीयमानमनुमन्त्रयते पूषेम आशाः इति २
तुरीयमध्वनो गत्वा निधाय पूर्ववत् कृत्वादीयमानमनुमन्त्रयते
आयुर्विश्वायुः इति ३
तुरीयमध्वनो गत्वा निधाय पूर्ववत् कृत्वा तृतीयेन
सह चरुं प्रक्षिणुयात् ४
अथास्य कपालानि सुसम्भिन्नानि सम्भिनत्ति
यथैषूदकं न तिष्ठेत् ५
तूष्णीं चतुर्थमादाय गत्वा जघनेन
दहनदेशं निधायोदञ्चः समुत्क्रामन्ति । एषा वै देवमनुष्याणाँ
शान्ता दिक् तामेवैनामनूत्क्रामन्तीति विज्ञायते ६
प्रत्येत्य
हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनँ सम्मार्ष्टि अपेत वीत इति ७
दक्षिणतः शाखामुदसित्वाप उपस्पृश्योद्धत्यावोक्ष्य हिरण्यशकल-मवधाय
तस्मिन् दक्षिणाग्रान् दर्भान् सँ स्तीर्य तेषु
दक्षिणाग्रैर्याज्ञिकैः
काष्ठैर्दारुचितिं चित्वाग्नीनुपवपति
पुरस्तादाहवनीयं पश्चाद्गार्हपत्यं
दक्षिण-तोऽन्वाहार्यपचनं पुरस्तात्
सभ्यावसथ्यावौपासनं च ८
दक्षिणाप्राग-ग्रैर्दर्भैरग्नीन्
दारुचितिं च परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान् सँ स्तीर्य
दक्षिणाप्राञ्च्येकैकशः पात्राणि प्रयुनक्ति ९
रज्जूरवकृत्यासन्दीमपविध्यन्ति १०
रज्जुषु
चैव कृष्णाजिने चोत्तानः शेते ११
एकपवित्रेण प्रोक्षणीः सँ स्कृत्य मृतं
पात्राणि दारुचितिं च प्रोक्ष्याज्यानि गृह्णाति दर्शपूर्णमासवत्
तूष्णीम् १२
अग्निहोत्रोच्छेषणमन्येन दध्ना सँ सृज्य पात्राणि
पूरयति यान्यासेचनवन्ति । अभ्युक्षतीतराण्यरिक्तताया इति
विज्ञायते १३
३