०२

औदुम्बर्यामासन्द्यां कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रोर्णोति इदं त्वा वस्त्रम् इति १
अथास्येतरदपादत्ते अपैतदूह इति २
तत्पुत्रो भ्राता वान्यो वा प्रत्यासन्नबन्धुः प्रतीतः परिधाया जरसो वसीत ३
अपरेणाहवनीयं प्रतीचीस्तिस्र उलपराजीः स्तीर्त्वापरापावमवहतानां व्रीहीणामन्वाहार्यपचने तूष्णीमुपचरितं चरुँ श्रपयति ४
गार्हपत्ये च मैत्रावरुणीमामिक्षां यदि सोमयाजी भवति ५
पालाशं काष्ठमग्न्यगारे तृणैर्गार्हपत्य आदीप्य तेनोल्मुकप्रथमा गच्छन्ति ६
अजमनुनयन्ति राजगवी ँसव्ये पदि बद्धामग्नीनग्निभाण्डमग्निहोत्रोच्छेषणमिति ७ येन चान्येनार्थी भवति ८
न हीनमन्वाहरेयुः ९
अथ तमाददते १०
अनसा वहन्तीत्येके ११
कृष्णगवँ स्यादिति शाट्यायनकम् १२
इमौ युनज्मि इत्येष योजन आम्नातः १३
आदीयमानमनुमन्त्रयते पूषा त्वेतश्च्यावयतु इति १४
तुरीयल्मध्वनो गत्वा निधाय दक्षिणतो लोष्टानवरुज्य तेषु चरुं प्रतिष्ठा-प्यैकवाससो दक्षिणान् केशपक्षानुद्ग्रथ्य सव्यान् प्रस्रस्य दक्षिणानूरूना-घ्नानाः सिग्भिरभिधून्वन्तस्त्रिः प्रसव्यं परियन्ति अप नः शोशुचदघम् इति १५
सव्यानुद्ग्रथ्य दक्षिणान् प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति अप नः शोशुचदघम् इति १६
मेक्षणेन लोष्टेषु चरोस्त्रिः प्रयौति १७