०१

अथातः पैतृमेधिकं दहनम् । पुरुषाहुतिर्ह्यस्य प्रियतमेति विज्ञायते १ आहितात्नेर्मरणसँ शये प्राचीनावीती दहनदेशं जोषयते दक्षिणाप्रत्यक्प्रवण-मनिरिणमसुषिरमनूषरमभङ्गुरमनुपहतमविस्रग्दार्यनुपच्छिन्नप्रवणम् २
य-स्माद्दक्षिणाप्रतीच्य आपो निःसृत्योदीच्य एत्य महानदीमवेत्य प्राच्यः सम्पद्यन्ते ३
समं वा सुभूमिं बहुलौषधम् ४
वनस्यावनं क्षेत्रस्याक्षेत्रमिरिणस्या-निरिणमित्येके ५
यस्मादारात् क्षीरिणो वृक्षाः काष्टकिणश्च तथौषध्यः ६
तस्मिँ स्त्रेधोल्लिख्योद्धत्यावोक्ष्य गार्हपत्यं मथित्वाहवनीयं ज्वलन्तमुद्धरति ७
अन्तरा दारुचितेरवकाशँ शिष्ट्वाग्नीनुपवपति पुरस्तादाहवनीयं पश्चाद् गार्हपत्यं दक्षिणतोऽन्वाहार्यपचनं पुरस्तात् सभ्यावसथ्यावौपासनं च ८ तेष्वजस्रेषु जुह्वद् वसति ९
प्राणा वा एत आहिताग्नेर्यदग्नयस्त एनँ सुसमिद्धाः पारयन्त्यगदो हैव भवतीति विज्ञायते १० तस्यैतदग्निहोत्रोच्छेषणं निदधाति ११
ग्रामे वास्यैतेन कल्पेन जुहुयात् १२
यदि जीवेत् पिबेदेतदग्निहोत्रोच्छेषणम् १३ यदि मरणसँ शये ब्रह्मविदाप्नोति परम् ॥ भृगुर्वै वारुणिः इत्येतावनुवाकौ ब्रह्मविदो दक्षिणे कर्णे जपति । इतरस्य आयुषः प्राणँ सन्तनु इति वा १४
यदि प्रैति प्रेतेऽमात्याः प्राचीनावीतिनः केशान् प्रकीर्य पाँ सूनावपन्ते १५
तं जघनेन गार्हपत्यं दक्षिणाशिरसं दर्भेषु संवेशयन्ति सर्वस्य प्रतिशीवरी इति १६ सर्वेषु संवेशनेषु दक्षिणाशिराः १७
पूर्वया द्वारोपनिर्हृत्यान्तराग्नी निपात्यान्वारब्धे मृत आहवनीये स्रुवाहुतिं जुहोति परे युवाँ सम् इति १८ एवं गार्यपत्ये १९
तूष्णीमन्वाहार्यपचने सभ्यावसथ्ययोरौपासने च २० अथास्य दक्षिणेन विहारं प्रेतस्य केशश्मश्रुलोमनखानि वापयित्वा स्नापयित्वाछाद्य ग्राम्येणालङ्कारेणालङ्कृत्य शुक्लसूत्रेणाङ्गुष्ठौ बद्ध्वा नलदमालामाबध्य २१