अथ पर्वण्यतीते मनो ज्योतिरयाश्चाग्ने यदस्मिन्नग्ने स्वस्ति न इन्द्र इति चतस्र आज्याहुतीर्जुत्वा स्थालीपाकं च कुर्यात्प्रागष्टम्या अत ऊर्ध्वं सोपवासः कार्यो द्वयोर्द्वौ त्रिषु त्रय इत्येवं नैमित्तिकेष्वतीतेषु प्रायश्चित्तं पार्वणवद्धोमः पितृयज्ञेऽतीते पक्षात्यये सोपवासः कार्य इति सिद्धं नित्येषु चैवमेव स्यादथ महायज्ञानां मनो ज्योतिरिति द्वयोस्त्रयाणां चतुर्णां पञ्चानां वा षष्ठप्रभृति तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेदिमं मे वरुण तत्त्वा यामि यच्चिद्धि ते यत्किं चेत्या नवरात्रादत ऊर्ध्वमा दशरात्राच्चतस्रोऽभ्यावर्तिनीर्हुत्वा कार्यस्तान्तुमतश्चरुः स्नातकस्यापि होमविछित्तावुक्तं प्राप्ते प्राजापत्ये तस्य विछित्तिस्तस्य तु पुनराधेयं मनो ज्योतिस्तन्तुमतीः पुनस्त्वादित्या रुद्रा इति च पूर्णाहुतिं प्रतीयादेतामग्न्युपघातेषु सर्वत्र स्त्रियाश्चैवं होमाभिगमनस्थालीपाकेषु सर्वेषामन्ततो व्याहृतीरिति सिद्धं नम आचार्येभ्यो नम आचार्येभ्यः २१
इति भारद्वाजसूत्रे तृतीयः प्रश्नः समाप्तः भारद्वाजीयं गृह्यसूत्रं समाप्तम्