२०

उत्तरस्मिन्काल आगते होमश्चेति निवृत्तः पूर्वस्य सेयं कालातिपत्तिस्तस्यां प्रायश्चित्तं मनो ज्योतिरिति पूर्वस्य हुत्वापरस्य जुहुयादेवं प्रतिहोममा दशरात्रात्प्राणायामश्चैकादशीप्रभृत्या विंशतिरात्रादुपवासश्चा त्रिंशद्रात्रादत ऊर्ध्वमा षष्टिरात्रात्तिस्रो रात्रीरुपवसेदत ऊर्ध्वं प्राजापत्यं विहितमेकादशीप्रभृति तिस्रश्च तन्तुमतीस्तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रिंशत्तन्तव इत्युक्तमनुगत इत्यपि वायाश्चाग्नेऽसीति जुहुयादा त्रिरात्रान्मनो ज्योतिरित्या सप्तरात्रादत ऊर्ध्वमा द्वादशरात्रात्तिस्रो रात्रीरुपवसेदत ऊर्ध्वं प्राजापत्यं विहितमेकादशीप्रभृति तिस्रश्च तन्तुमतीरुक्तं द्वादशाहं विछिन्न इत्येकादशीप्रभृत्युपवासः पूर्ववत् २०