अथ गृह्यप्रायश्चित्तानि यानि स्मर्यन्ते तानि वक्ष्यामः शेषाणि वैतानिकानि स्युर्होमदेवतायाः समाम्नानात्फलश्रुतेश्च या एवाग्निहोत्रे देवतास्ता औपासने य एवाहिताग्नेर्धर्मः स एव धर्मो य एवाहिताग्नेर्लोकः स एवौपासनिकस्येति शाट्यायनिब्राह्मणं भवति तत्र ये पुरोडाशास्त इह चरवः पयोदधिपृषदाज्यानामाज्यवत्संस्कारो न दध्नोऽधिश्रयणं प्रत्यसने परिपेचनमद्भी रौद्रराक्षसनैरृतपैतृकछेदनभेदनखनननिरसनावघ्राणात्माभिमर्शनानि च कृत्वाप उपस्पृशेत्सर्वत्र स्कन्ने भिन्ने क्षामे दग्धे विपर्यासेऽन्तरिते च द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति द्वाभ्यामथ स्कन्ने सं त्वा सिञ्चामीति स्कन्नमभिमन्त्र्योन्नम्भय पृथिवीमित्यपोऽभ्यवहृत्य भूरित्युपस्थायास्कान्द्यौः पृथिवीमित्याहुतिं जुहोत्यथाज्यं चेद्देवाञ्जनमगन्यज्ञ इति चानुमन्त्रणं किं चिच्च दद्याद्भिन्ने भूमिर्भूमिमगादिति भिन्नमभिमन्त्र्योन्नम्भय पृथिवीमित्यपोऽभ्यवहृत्य त्रयस्त्रिंशत्तन्तव इत्येतया जुहुयादग्नौप्रक्षेपणं दारुमयेऽथ क्षामे निरृत्यै त्वेति विदग्धमभिमन्त्र्य त्वं पराची त्वमवाची त्वं रक्षांसि गच्छेति दक्षिणापरमुत्तरापरं वा दिशं तं प्रति निरस्यत्यग्नी रक्षांसि सेधतीति तिस्र आज्याहुतीर्जुहुयात् १८