१७

संवत्सरे सपिण्डीकरणमेकादशे मासि षष्ठे चतुर्थे द्वादशेऽहनि यदि पुण्याहकाल उपव्यावर्तेत पितॄणामावाहनं सव्यस्य पाणेरङ्गुष्ठेनोपमध्यमया चाङ्गुल्यालभ्य पृथिवीं जपेद्ये पार्थिवासः पितरो ये अन्तरिक्षे ये दिवि ये वामृता बभूवुः । तेऽस्मिन्यज्ञेऽमृता मादयन्तामिति चत्वारि पात्राणि सतिलगन्धोदकेन पूरयित्वैकं प्रेतस्य त्रीणि पितॄणामेकं वा पितॄणां प्रेतपात्रं पितृपात्रेष्वासिञ्चति ये समाना ये सजाता इति द्वाभ्यामसौ पितृभिः पितामहेभिः प्रपितामहेभिः सहैतत्ते तिलोदकं तस्मै ते स्वधा नम इति तिलोदकप्रदानमग्नौकरणमनुदेशनीयं च यथार्थमूहेदासेचने सपिण्डी व्याख्याता यथाश्रद्धं दक्षिणा भवन्त्यत ऊर्ध्वं मासिश्राद्धेन १७