१६

नान्दीश्राद्धस्य पूर्वपक्षे यथोपदेशं पूर्वेद्युर्वा युग्मान्ब्राह्मणान्भोजयेत्प्रदक्षिणमुपचारोऽग्निमिद्ध्वा दूर्वाभिः संस्तीर्य भोजनस्थानेषु च पवित्रे कृत्वा पात्रे निधायोत्पूय यवान्निधाय प्रणीतावदुपचारं हविष्यं च दध्योदनं चासाद्य नान्दीमुखाः पितरः प्रियन्तामित्यपां प्रतिग्रहणं विसर्जनं च पश्चादेवं विश्वेभ्यो देवेभ्यो नान्दीमुखेभ्यः पितृभ्यः स्वाहेति हुत्वोपस्तीर्य सर्वं द्विर्द्विरवद्यत्यभिघार्य वैष्णव्यर्चोपस्पर्शयित्वाचान्तेषु पूर्णपात्रं दत्त्वा गोमयेनोपलिप्य दध्योदनशेषं यवोदकेनावोक्ष्य न्युप्य पश्चात्परिषेचनं सम्पन्नमिति पृष्ट्वेडा देवहूरित्यनुवाकशेषं जपेद्ब्राह्मणान्भोजयित्वाशिषो वाचयति १६