अपरेण गार्हपत्यमुपविश्याधीहि भो इत्युक्त्वा सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो वा दशवारं वेदादीन्जपेच्छन्दांसि कूश्माण्डानि चाधियीताग्निमीले पुरोहितमित्यृग्वेदस्येषे त्वोर्जे त्वेति यजुर्वेदस्याग्न आयाहि वीतय इति सामवेदस्य शन्नो देवीरभिष्टय इत्यथर्ववेदस्याग्निर्मूर्धेति छन्दांसि यद्देवा देवहेडनमिति कूश्माण्ड्यो यदधीते स ब्रह्मयज्ञो यज्जुहोति स देवयज्ञो यत्पितृभ्यः स्वधा करोति स पितृयज्ञो यद्भूतेभ्यो बलिं हरति स भूतयज्ञो यदतिथिभ्योऽन्नं ददाति स मनुष्ययज्ञ इत्येते वै पञ्च महायज्ञाः सतति सुप्रयुक्ता नयन्ति परमां गतिम् एतेभ्यो यस्य पञ्चभ्यो यज्ञ एकोऽपि हीयते । मनस्वत्याहुतिस्तस्य प्रायश्चित्तं विधीयते । द्व्यहं त्र्यहं वापि प्रमादादकृतेषु तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेद्दशाहं द्वादशाहं वा विछिन्नेषु स्वस्त्ययनेषु तु सर्वशश्चतस्रोऽभ्यावर्तिनीर्हुत्वा कार्यस्तान्तुमतश्चरुः यस्य स्त्री वानुपेतो वा गृहेष्वेतान्बलीन्हरेत् कूश्माण्ड्यस्तत्र होतव्या हुत्वा यज्ञसमृद्धये प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते पञ्चानां महतामेषां स यज्ञैः सह गच्छति प्रवासे कुरुते चैतान्यदन्नमुपपद्यते न चेदुत्पद्यते त्वन्नमद्भिरेनान्समापयेत् अड्भिरेव व्रतं कृत्वा यथालाभमनुव्रतः देवानां देवयज्ञेन द्विजा गच्छन्ति सात्मताम् पितॄणां पितृयज्ञेन भूतियज्ञेन भूतीनाम् मनोर्मनुष्ययज्ञेन ब्रह्मयज्ञेन ब्रह्मणः एतेषां सात्मतां गत्वा देवतानां शतं समाः आनन्दं ब्रह्म गच्छन्ति ध्रुवं शाश्वतमव्ययमिति १५